|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.95. अध्यायः 095
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति युद्धधर्मकथनम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-95-0x(5587)(68487)
अथ यो विजिगीषेत क्षत्रियः क्षत्रियं युधि।
कस्तस्य विजये धर्मो ह्येतं पृष्टो ब्रवीहि मे॥ 12-95-1(68488)
भीष्म उवाच। 12-95-2x(5588)
ससहायोऽसहायो वा राष्ट्रमागम्य भूमिपः।
ब्रूयादहं यो राजेति रक्षिष्यामि च वः सदा॥ 12-95-2(68489)
मम धर्मबलिं दत्त किंवा मां प्रतिपत्स्यथ।
ते चोक्तमागतं तत्र घृणीयुः कुशलं भवेत्॥ 12-95-3(68490)
ते चेदक्षत्रियाः सन्तो विरुध्येरन्कथंचन।
सर्वोपायैर्नियन्तव्या विकर्मस्था नराधिप॥ 12-95-4(68491)
अशस्त्रं क्षत्रियं मत्वा शस्त्रं गृह्णात्यथापरः।
त्राणायाप्यसमर्थं तं मन्यमानमतीव च॥ 12-95-5(68492)
युधिष्ठिर उवाच। 12-95-6x(5589)
अथः यः क्षत्रियो राजा क्षत्रियं प्रत्युपाव्रजेत्।
कथं संप्रतियोद्धव्यस्तन्मे ब्रूहि पितामह॥ 12-95-6(68493)
भीष्म उवाच। 12-95-7x(5590)
नासन्नह्यो नाकवचो योद्धव्यः क्षत्रियो रणे।
एक एकेन भाव्यश्च विसृजेति क्षिपामि च॥ 12-95-7(68494)
स चेत्सन्नद्ध आगच्छेत्सन्नद्धव्यं ततो भवेत्।
स चेत्ससैन्य आगच्छेत्ससैन्यस्तमथाह्वयेत्॥ 12-95-8(68495)
स चेन्निकृत्या युध्येत निकृत्या प्रतियोधयेत्।
अथ चेद्धर्मतो युध्येद्धर्मेणैव निवारयेत्॥ 12-95-9(68496)
नाश्वेन रथिनं यायादुदियाद्रथिनं रथी।
व्यसने न प्रहर्तव्यं न भीताय जिताय च॥ 12-95-10(68497)
नेषुर्लिप्तो न कर्णी स्यादसतामेतदायुधम्।
यथार्थमेव योद्धव्यं न क्रुद्ध्येत जिघांसतः॥ 12-95-11(68498)
`नास्त्येकस्य गजो युद्धे गजश्चेकस्य विद्यते।
न पदातिर्गजं युध्येन्न गतेन पदातिनम्॥ 12-95-12(68499)
हस्तिना योधयेन्नागं कदाचिच्छिक्षितो हयः।
दिव्यास्त्रबलसंपन्नः कामं युध्येत सर्वदा।
नागे भूमौ समे चैव रथेनाश्वेन वा पुनः॥ 12-95-13(68500)
रामरावणयोर्युद्धे हरयो वै पदातयः।
लक्ष्मणश्च महाभागस्तथा राजन्विभीषणः॥ 12-95-14(68501)
रावणस्यान्तकाले च रथेनैन्द्रेण राधवः।
निजघान दुराचारं रावणं पापकारिणम्॥ 12-95-15(68502)
दिव्यास्त्रबलसंपन्ने सर्वमेतद्विधीयते।
देवासुरेषु सर्वेषु दृष्टमेतत्पुरातनैः॥' 12-95-16(68503)
[साधूनां तु यदा भेदात्साधुश्चेद्व्यसनी भवेत्।]
निष्प्राणो नाभिहन्तव्यो नानपत्यः कथंचन।
भग्नशस्त्रो विपन्नश्च कृत्तज्यो हतवाहनः। 12-95-17(68504)
चिकित्स्यः स्यात्स्वविषये प्राप्यो वा स्वगृहे भवेत्।
निर्व्रणश्च स भोक्तव्य एष धर्मः सनातनः॥ 12-95-18(68505)
तस्माद्धर्मेण योद्धव्यमिति स्वायंभुवोऽब्रवात्।
सत्सु नित्यः सतां धर्मस्तमास्थाय न नाशयेत्॥ 12-95-19(68506)
यो वै जयत्यधर्मेण क्षत्रियो धर्मसंगरः।
आत्मानमात्मना हन्ति पापो निकृतिजीवनः॥ 12-95-20(68507)
कर्म चैतदसाधूनां साधून्योऽसाधुना जयेत्।
धर्मेण निधनं श्रेयो न जयः पापकर्मणा॥ 12-95-21(68508)
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव।
मूलानि च प्रशाखाश्च दहन्समधिगच्छते॥ 12-95-22(68509)
पापेन कर्मणा वित्तं लब्ध्वा पापः प्रहृष्यति।
स वर्धमानस्तेनैव पापः पापे प्रसज्जति॥ 12-95-23(68510)
न धर्मोऽस्तीति मन्वानः शुचीनवहसन्निव।
अश्रद्दधानश्च भवेद्विनाशमुपगच्छति
स बद्धो वारुणैः पाशैरमर्त्यैरवमन्यते। 12-95-24(68511)
महादृतिरिवाध्मातः स्वकृतेनैव वर्धते।
ततः समूलो ह्रियते नदीकूलादिव द्रुमा॥ 12-95-25(68512)
अथैनमभिनिन्दन्ति भिन्नं कुम्भमिवाश्यानि।
तस्माद्धर्मेण विजयं कोशं लिप्सेत भूमिपः॥ ॥ 12-95-26(68513)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि पञ्चनवतितमोऽध्यायः॥ 95॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-95-2 राष्ट्रं परकीयम्॥ 12-95-5 त्राणायाप्यसमर्थं परं चातीव मन्यमानं क्षत्रियमशस्त्रं ज्ञात्वाऽपरो हीनोऽपि शस्त्रं गृह्णाति॥ 12-95-11 लिप्तो विवदिग्धः। कर्णी ऋजुः प्रतीपकण्टकः॥ 12-95-25 महादृतिर्महांश्चर्मकोशः। आध्मातो वायुना पूरितः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|